|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.40. अध्यायः 040
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण भीमार्जुनाद्रीनां तत्तद्योग्ययौवराज्याद्यधिकारेषु नियोजनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-40-0x(5424)(66329)
प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम्।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत॥ 12-40-1(66330)
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः।
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः॥ 12-40-2(66331)
अनुग्राह्या वयं नूनं भवतामिति मे मतिः।
यदेवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः॥ 12-40-3(66332)
धृतराष्ट्रो महाराजः पिता नो दैवतं परम्।
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः॥ 12-40-4(66333)
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्।
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा॥ 12-40-5(66334)
यदि चाहमनुग्राह्यो भवतां सुहृदां तथा।
धृतरा यथापूर्वं वृत्तिं वर्तितुमर्हथ॥ 12-40-6(66335)
एष नाथो हि जगतो भवतां च मया सह।
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च॥ 12-40-7(66336)
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम।
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति॥ 12-40-8(66337)
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः।
यौवराज्येन कौन्तेयं भीमसेनमयोजयत्॥ 12-40-9(66338)
मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने।
विदुरं बुद्धिसंपन्नं प्रीतिमान्स समादिशत्॥ 12-40-10(66339)
कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने।
संजयं योजयामास वृद्धं सर्वगुणैर्युतम्॥ 12-40-11(66340)
बलस्य परिमाणे च भक्तवेतनयोस्तथा।
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे॥ 12-40-12(66341)
परचक्रोपरोधे च दृप्तानां चावमर्दने।
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह॥ 12-40-13(66342)
द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह।
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत्॥ 12-40-14(66343)
सहदेवं समीपस्थं नित्यमेव समादिशत्।
तने गोप्यो हि नृपतिः सर्वावस्थो विशांपते॥ 12-40-15(66344)
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु।
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः॥ 12-40-16(66345)
विदुरं संजयं चैव युयुत्सुं च महामतिम्।
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः॥ 12-40-17(66346)
उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम।
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम॥ 12-40-18(66347)
पौरजानपदानां च यानि कार्याणि नित्यशः।
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः॥ ॥ 12-40-19(66348)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चत्वारिंशोऽध्यायः॥ 40॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-40-18 यत् अस्य कार्यं तच्च भवद्भिः कर्तव्यमित्यर्थः। अप्रमत्तैस्तथामयेति ट. द. पाठः॥ 12-40-19 तानि कार्याणि कर्तव्यानीत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|